॥ॐश्रीपरमात्मनेनमः॥।
॥अथश्रीमद्भगवद्गीता॥॥
अथप्रथमोऽध्यायः।
अर्जुनविषादयोगः।
धृतराष्ट्रउवाच।॥
धर्मक्षेत्रेकुरुक्षेत्रेसमवेतायुयुत्सवः।।
मामकाःपाण्डवाश्चैवकिमकुर्वतसञ्जय॥११॥॥
सञ्जयउवाच।॥
दृष्ट्वातुपाण्डवानीकंव्यूढंदुर्योधनस्तदा।।
आचार्यमुपसङ्गम्यराजावचनमब्रवीत्॥१२॥॥
पश्यैतांपाण्डुपुत्राणामाचार्यमहतींचमूम्।।
व्यूढांद्रुपदपुत्रेणतवशिष्येणधीमता॥१३॥॥
अत्रशूरामहेष्वासाभीमार्जुनसमायुधि।।
युयुधानोविराटश्चद्रुपदश्चमहारथः॥१४॥॥
धृष्टकेतुश्चेकितानःकाशिराजश्चवीर्यवान्।।
पुरुजित्कुन्तिभोजश्चशैब्यश्चनरपुङ्गवः॥१५॥॥
युधामन्युश्चविक्रान्तउत्तमौजाश्चवीर्यवान्।।
सौभद्रोद्रौपदेयाश्चसर्वएवमहारथाः॥१६॥॥
अस्माकंतुविशिष्टायेतान्निबोधद्विजोत्तम।।
नायकाममसैन्यस्यसंज्ञार्थंतान्ब्रवीमिते॥१७॥॥
भवान्भीष्मश्चकर्णश्चकृपश्चसमितिञ्जयः।।
अश्वत्थामाविकर्णश्चसौमदत्तिस्तथैवच॥१८॥सौमदत्तिर्जयद्रथः॥
अन्येचबहवःशूरामदर्थेत्यक्तजीविताः।।
नानाशस्त्रप्रहरणाःसर्वेयुद्धविशारदाः॥१९॥॥
अपर्याप्तंतदस्माकंबलंभीष्माभिरक्षितम्।।
पर्याप्तंत्विदमेतेषांबलंभीमाभिरक्षितम्॥११०॥॥
अयनेषुचसर्वेषुयथाभागमवस्थिताः।।
भीष्ममेवाभिरक्षन्तुभवन्तःसर्वएवहि॥१११॥॥
तस्यसञ्जनयन्हर्षंकुरुवृद्धःपितामहः।।
सिंहनादंविनद्योच्चैःशङ्खंदध्मौप्रतापवान्॥११२॥॥
ततःशङ्खाश्चभेर्यश्चपणवानकगोमुखाः।।
सहसैवाभ्यहन्यन्तसशब्दस्तुमुलोऽभवत्॥११३॥॥
ततःश्वेतैर्हयैर्युक्तेमहतिस्यन्दनेस्थितौ।।
माधवःपाण्डवश्चैवदिव्यौशङ्खौप्रदध्मतुः॥११४॥॥
पाञ्चजन्यंहृषीकेशोदेवदत्तंधनञ्जयः।।
पौण्ड्रंदध्मौमहाशङ्खंभीमकर्मावृकोदरः॥११५॥॥
अनन्तविजयंराजाकुन्तीपुत्रोयुधिष्ठिरः।।
नकुलःसहदेवश्चसुघोषमणिपुष्पकौ॥११६॥॥
काश्यश्चपरमेष्वासःशिखण्डीचमहारथः।।
धृष्टद्युम्नोविराटश्चसात्यकिश्चापराजितः॥११७॥॥
द्रुपदोद्रौपदेयाश्चसर्वशःपृथिवीपते।।
सौभद्रश्चमहाबाहुःशङ्खान्दध्मुःपृथक्पृथक्॥११८॥॥
सघोषोधार्तराष्ट्राणांहृदयानिव्यदारयत्।।
नभश्चपृथिवींचैवतुमुलोऽभ्यनुनादयन्॥११९॥लोव्यनु॥
अथव्यवस्थितान्दृष्ट्वाधार्तराष्ट्रान्कपिध्वजः।।
प्रवृत्तेशस्त्रसम्पातेधनुरुद्यम्यपाण्डवः॥१२०॥॥
हृषीकेशंतदावाक्यमिदमाहमहीपते।।
अर्जुनउवाच।॥
सेनयोरुभयोर्मध्येरथंस्थापयमेऽच्युत॥१२१॥।
यावदेतान्निरीक्षेऽहंयोद्धुकामानवस्थितान्।॥
कैर्मयासहयोद्धव्यमस्मिन्रणसमुद्यमे॥१२२॥।
योत्स्यमानानवेक्षेऽहंयएतेऽत्रसमागताः।॥
धार्तराष्ट्रस्यदुर्बुद्धेर्युद्धेप्रियचिकीर्षवः॥१२३॥।
सञ्जयउवाच।॥
एवमुक्तोहृषीकेशोगुडाकेशेनभारत।।
सेनयोरुभयोर्मध्येस्थापयित्वारथोत्तमम्॥१२४॥॥
भीष्मद्रोणप्रमुखतःसर्वेषांचमहीक्षिताम्।।
उवाचपार्थपश्यैतान्समवेतान्कुरूनिति॥१२५॥॥
तत्रापश्यत्स्थितान्पार्थःपितॄनथपितामहान्।।
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा॥१२६॥॥
श्वशुरान्सुहृदश्चैवसेनयोरुभयोरपि।।
तान्समीक्ष्यसकौन्तेयःसर्वान्बन्धूनवस्थितान्॥१२७॥॥
कृपयापरयाविष्टोविषीदन्निदमब्रवीत्।।
अर्जुनउवाच।॥
दृष्ट्वेमंस्वजनंकृष्णयुयुत्सुंसमुपस्थितम्॥१२८॥।
सीदन्तिममगात्राणिमुखंचपरिशुष्यति।॥
वेपथुश्चशरीरेमेरोमहर्षश्चजायते॥१२९॥।
गाण्डीवंस्रंसतेहस्तात्त्वक्चैवपरिदह्यते।॥
नचशक्नोम्यवस्थातुंभ्रमतीवचमेमनः॥१३०॥।
निमित्तानिचपश्यामिविपरीतानिकेशव।॥
नचश्रेयोऽनुपश्यामिहत्वास्वजनमाहवे॥१३१॥।
नकाङ्क्षेविजयंकृष्णनचराज्यंसुखानिच।॥
किंनोराज्येनगोविन्दकिंभोगैर्जीवितेनवा॥१३२॥।
येषामर्थेकाङ्क्षितंनोराज्यंभोगाःसुखानिच।॥
तइमेऽवस्थितायुद्धेप्राणांस्त्यक्त्वाधनानिच॥१३३॥।
आचार्याःपितरःपुत्रास्तथैवचपितामहाः।॥
मातुलाःश्वशुराःपौत्राःश्यालाःसम्बन्धिनस्तथा॥१३४॥।
एतान्नहन्तुमिच्छामिघ्नतोऽपिमधुसूदन।॥
अपित्रैलोक्यराज्यस्यहेतोःकिंनुमहीकृते॥१३५॥।
निहत्यधार्तराष्ट्रान्नःकाप्रीतिःस्याज्जनार्दन।॥
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः॥१३६॥।
तस्मान्नार्हावयंहन्तुंधार्तराष्ट्रान्स्वबान्धवान्।॥
स्वजनंहिकथंहत्वासुखिनःस्याममाधव॥१३७॥।
यद्यप्येतेनपश्यन्तिलोभोपहतचेतसः।॥
कुलक्षयकृतंदोषंमित्रद्रोहेचपातकम्॥१३८॥।
कथंनज्ञेयमस्माभिःपापादस्मान्निवर्तितुम्।॥
कुलक्षयकृतंदोषंप्रपश्यद्भिर्जनार्दन॥१३९॥।
कुलक्षयेप्रणश्यन्तिकुलधर्माःसनातनाः।॥
धर्मेनष्टेकुलंकृत्स्नमधर्मोऽभिभवत्युत॥१४०॥।
अधर्माभिभवात्कृष्णप्रदुष्यन्तिकुलस्त्रियः।॥
स्त्रीषुदुष्टासुवार्ष्णेयजायतेवर्णसङ्करः॥१४१॥।
सङ्करोनरकायैवकुलघ्नानांकुलस्यच।॥
पतन्तिपितरोह्येषांलुप्तपिण्डोदकक्रियाः॥१४२॥।
दोषैरेतैःकुलघ्नानांवर्णसङ्करकारकैः।॥
उत्साद्यन्तेजातिधर्माःकुलधर्माश्चशाश्वताः॥१४३॥।
उत्सन्नकुलधर्माणांमनुष्याणांजनार्दन।॥
नरकेनियतंवासोभवतीत्यनुशुश्रुम॥१४४॥नरकेऽनियतं।
अहोबतमहत्पापंकर्तुंव्यवसितावयम्।॥
यद्राज्यसुखलोभेनहन्तुंस्वजनमुद्यताः॥१४५॥।
यदिमामप्रतीकारमशस्त्रंशस्त्रपाणयः।॥
धार्तराष्ट्रारणेहन्युस्तन्मेक्षेमतरंभवेत्॥१४६॥।
सञ्जयउवाच।॥
एवमुक्त्वार्जुनःसङ्ख्येरथोपस्थउपाविशत्।।
विसृज्यसशरंचापंशोकसंविग्नमानसः॥१४७॥॥
ॐतत्सदितिश्रीमद्भगवद्गीतासूपनिषत्सु।
ब्रह्मविद्यायांयोगशास्त्रेश्रीकृष्णार्जुनसंवादे॥
अर्जुनविषादयोगोनामप्रथमोऽध्यायः॥१॥।