गरुडपुराण
श्रीगणाधिपतये नमः ।
सरस्वत्यैनमः ।
अथ श्रीगरुडमहापुराणं प्रारभ्यते ।
तत्रादौ कर्मकाण्डाख्यः पूर्वखण्डः प्रारभ्यते ।
ॐ
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ १.१.० ॥
ॐ
अजमजरमनन्तं ज्ञानरूपं महान्तं शिवममलमनादिं भूतदेहादिहीनम् ।
सकलकरणहीनं सर्वभूतस्थितं तं हरिममलममायं सर्वगं वन्द एकम् ॥ १.१.१॥
नमस्यामि हरिं रुद्रं ब्रह्माणं च गणाधिपम् ।
देवीं सरस्वतीं चैव मनोवाक्कर्मभिः सदा ॥ १.१.२॥
सूतं पौराणिकं शान्तं सर्वशास्त्रविशारदम् ।
विष्णुभक्तं महात्मानं नैमिशारण्यमागतम् ॥ १.१.३॥
तीर्थयात्राप्रसङ्गेन उपविष्टं शुभासने ।
ध्यायन्तं विष्णुमनघं तमभ्यर्च्यास्तुवन्कविम् ॥ १.१.४॥
शौनकाद्या महाभागा नैमिषीयास्तपोधनाः ।
मुनयो रविसङ्काशाः शान्ता यज्ञ परायणाः ॥ १.१.५॥
ऋषय ऊचुः ।
सूत जानासि सर्वं त्वं पृच्छामस्त्वामतो वयम् ।
देवतानां हि को देव ईश्वरः पूज्य एव कः ॥ १.१.६॥
को ध्येयः को जगत्स्रष्टा जगत्पात्ति च हन्ति कः ।
कस्मात्प्रवर्तते धर्मो दुष्टहन्ता च कः स्मृतः ॥ १.१.७॥
तस्य देवस्य किं रूपं जगत्सर्गः कथं मतः ।
कैर्व्रतैः स तु तुष्टः स्यात्केन योगेन वाप्यते ॥ १.१.८॥
अवताराश्च के तस्य कथं वंशादिसम्भवः ।
वर्णाश्रमादिधर्माणां कः पाता कः प्रवर्तकः ॥ १.१.९॥
एतत्सर्वं तथान्यच्च ब्रूहि सूत महामते ।
नारायणकथाः सर्वाः कथयास्माकमुत्तमाः ॥ १.१.१०॥
सूत उवाच ।
पुराणं गारुडं वक्ष्ये सारं विष्णुकथा श्रयम् ।
गरुडोक्तं कश्यपाय पुरा व्यासाच्छ्रुतं मया ॥ १.१.११॥
एको नारायणो देवो देवानामीश्वरेश्वरः ।
परमात्मा परं ब्रह्म जन्माद्यस्य यतो भवेत् ॥ १.१.१२॥
जगतो रक्षणार्थाय वासुदेवोऽजरोऽमरः ।
स कुमारादिरूपेण अवतारान्करोत्यजः ॥ १.१.१३॥
हरिः स प्रथमं देवः कौमारं सर्गमास्थितः ।
चचार दुश्चरं ब्रह्मन्ब्रह्मचर्यमखण्डितम् ॥ १.१.१४॥
द्वितीयं तु भवायास्य रसातलगतां महीम् ।
उद्धरिष्यन्नुपादत्ते यज्ञेशः सौकरं वपुः ॥ १.१.१५॥
तृतीयमृषिसर्गं तु देवर्षित्वमुपेत्य सः ।
तन्त्रं सात्वतमाचष्टे नैष्कर्म्यं कर्मणां यतः ॥ १.१.१६॥
नरनारायणो भूत्वा तुर्ये तेपे तपो हरिः ।
धर्मसं रक्षणार्थाय पूजितः स सुरासुरैः ॥ १.१.१७॥
पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् ।
प्रोवाच सूरये साङ्ख्यं तत्त्वग्रामवि निर्णयम् ॥ १.१.१८॥
षष्ठमत्रेरपत्यत्वं दत्तः प्राप्तोऽनसूयया ।
आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ॥ १.१.१९॥
ततः सप्त आकूत्यां रुचेर्यज्ञोऽभ्यजायत ।
सुत्रामाद्यैः सुरगणैर्यष्ट्वा स्वायम्भुवान्तरे ॥ १.१.२०॥
अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः ।
दर्शयन्वर्त्म नारीणां सर्वाश्रमनमस्कृतम् ॥ १.१.२१॥
ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः ।
दुग्धैर्महौषधैर्विप्रास्तेन संजीविताः प्रजाः ॥ १.१.२२॥
रूपं स जगृहे मात्स्यं चाक्षुषान्तरसम्प्लवे ।
नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम् ॥ १.१.२३॥
सुरासुराणामुदधिं मथ्नतां मन्दराचलम् ।
दध्रे कमठरूपेण पृष्ठ एकादशे विभुः ॥ १.१.२४॥
धान्वन्तरं द्वादशमं त्रयोदशममेव च ।
आप्यायत्सुरानन्यान्मोहिन्या मोहयंस्त्रिया ॥ १.१.२५॥
चतुर्दशं नारसिंहं चैत्य वैर दैत्येन्द्रमूर्जितम् ।
ददार करजैरुग्रैरेरकां कटकुद्यथा ॥ १.१.२६॥
पञ्चदशं वामनको भूत्वागादध्वरं बलेः ।
पाद त्रयं याचमानः प्रत्यादित्सुस्त्रिविष्टपम् ॥ १.१.२७॥
अवतारे षोडशमे पश्यन्ब्रह्मद्रुहो नृपान् ।
त्रिः सप्तकृत्वः कुपितो निः क्षत्रामकरोन्महीम् ॥ १.१.२८॥
ततः सप्तदशे जातः सत्यवत्यां पराशरात् ।
चक्रे वेदतरोः शाखां दृष्ट्वा पुंसोऽल्पमेधसः ॥ १.१.२९॥
नरदेवत्वमापन्नः सुरकार्यचिकीर्षया ।
समुद्रनिग्रहादीनि चक्रे कार्याण्यतः परम् ॥ १.१.३०॥
एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।
रामकृष्णाविति भुवो भगवानहरद्भरम् ॥ १.१.३१॥
ततः कलेस्तु सन्ध्यान्ते समोहाय सुरद्विषाम् ।
बुद्धो नाम्रा जिनसुतः कीकटेषु भविष्यति ॥ १.१.३२॥
अथ सोऽष्टमसन्ध्यायां नष्टप्रायेषु राञ्जसु ।
भविता विष्णुयशसो नाम्ना कल्की जगत्पतिः ॥ १.१.३३॥
अवतारा ह्यसंख्येया हरेः सत्त्वनिधेर्द्विजाः ।
मनुवेदविदो ह्याद्याः सर्वे विष्णुकलाः स्मृताः ॥ १.१.३४॥
तस्मात्सर्गादयो जाताः सम्पूज्याश्च व्रतादिना ।
पुराणं गारुडं व्यासः पुरासौ मेऽब्रवीदिदम् ॥ १.१.३५॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये कर्मकाण्डे
एतत्पुराणप्रवृत्तिहेतुनिरूपणं नाम प्रथमोऽध्यायः