वाल्मीकिरामायणअयोध्याकाण्ड।
सर्ग॥
१॥
कस्यचित्त्वथकालस्यराजादशरथःसुतम्।
भरतंकेकयीपुत्रमब्रवीद्रघुनन्दनः१॥
अयंकेकयराजस्यपुत्रोवसतिपुत्रक।
त्वांनेतुमागतोवीरयुधाजिन्मातुलस्तव२॥
श्रुत्वादशरथस्यैतद्भरतःकेकयीसुतः।
गमनायाभिचक्रामशत्रुघ्नसहितस्तदा३॥
आपृच्छ्यपितरंशूरोरामंचाक्लिष्टकारिणम्।
मातॄंश्चापिनरश्रेष्ठःशत्रुघ्नसहितोययौ४॥
युधाजित्प्राप्यभरतंसशत्रुघ्नंप्रहर्षितः।
स्वपुरंप्राविशद्वीरःपितातस्यतुतोषह५॥
सतत्रन्यवसद्भ्रात्रासहसत्कारसत्कृतः।
मातुलेनाश्वपतिनापुत्रस्नेहेनलालितः६॥
तत्रापिनिवसन्तौतौतर्प्यमाणौचकामतः।
भ्रातरौस्मरतांवीरौवृद्धंदशरथंनृपम्७॥
राजापितौमहातेजाःसस्मारप्रोषितौसुतौ।
उभौभरतशत्रुघ्नौमहेन्द्रवरुणोपमौ८॥
सर्वएवतुतस्येष्टाश्चत्वारःपुरुषर्षभाः।
स्वशरीराद्विनिर्वृत्ताश्चत्वारइवबाहवः९॥
तेषामपिमहातेजारामोरतिकरःपितुः।
स्वयम्भूरिवभूतानांबभूवगुणवत्तरः१०॥
गतेचभरतेरामोलक्ष्मणश्चमहाबलः।
पितरंदेवसङ्काशंपूजयामासतुस्तदा११॥
पितुराज्ञांपुरस्कृत्यपौरकार्याणिसर्वशः।
चकाररामोधर्मात्माप्रियाणिचहितानिच१२॥
मातृभ्योमातृकार्याणिकृत्वापरमयन्त्रितः।
गुरूणांगुरुकार्याणिकालेकालेऽन्ववैक्षत१३॥
एवंदशरथःप्रीतोब्राह्मणानैगमास्तथा।
रामस्यशीलवृत्तेनसर्वेविषयवासिनः१४॥
सहिनित्यंप्रशान्तात्मामृदुपूर्वंचभाषते।
उच्यमानोऽपिपरुषंनोत्तरंप्रतिपद्यते१५॥
कथंचिदुपकारेणकृतेनैकेनतुष्यति।
नस्मरत्यपकाराणांशतमप्यात्मवत्तया१६॥
शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्चसज्जनैः।
कथयन्नास्तवैनित्यमस्त्रयोग्यान्तरेष्वपि१७॥
कल्याणाभिजनःसाधुरदीनःसत्यवागृजुः।
वृद्धैरभिविनीतश्चद्विजैर्धर्मार्थदर्शिभिः१८॥
धर्मार्थकामतत्त्वज्ञःस्मृतिमान्प्रतिभावनान्।
लौकिकेसमयाचरेकृतकल्पोविशारदः१९॥
शास्त्रज्ञश्चकृतज्ञश्चपुरुषान्तरकोविदः।
यःप्रग्रहानुग्रहयोर्यथान्यायंविचक्षणः२०॥
आयकर्मण्युपायज्ञःसन्दृष्टव्ययकर्मवित्।
श्रैष्ठ्यंशास्त्रसमूहेषुप्राप्तोव्यामिश्रकेष्वपि२१॥
अर्थधर्मौचसङ्गृह्यसुखतन्त्रोनचालसः।
वैहारिकाणांशिल्पानांविज्ञातार्थविभागवित्२२॥
आरोहेविनयेचैवयुक्तोवारणवाजिनाम्।
धनुर्वेदविदांश्रेष्ठोलोकेऽतिरथसंमतः२३॥
अभियाताप्रहर्ताचसेनानयविशारदः।
अप्रधृष्यश्चसङ्ग्रामेक्रुद्धैरपिसुरासुरैः२४॥
अनसूयोजितक्रोधोनदृप्तोनचमत्सरी।
नचावमन्ताभूतानांनचकालवशानुगः२५॥
एवंश्रैष्ठैर्गुणैर्युक्तःप्रजानांपार्थिवात्मजः।
संमतस्त्रिषुलोकेषुवसुधायाःक्षमागुणैः॥
बुद्ध्याबृहस्पतेस्तुल्योवीर्येणापिशचीपतेः२६।
तथासर्वप्रजाकान्तैःप्रीतिसञ्जननैःपितुः॥
गुणैर्विरुरुचेरामोदीप्तःसूर्यइवांशुभिः२७।
तमेवंवृत्तसम्पन्नमप्रधृष्यपराक्रमम्॥
लोकपालोपमंनाथमकामयतमेदिनी२८।
एतैस्तुबहुभिर्युक्तंगुणैरनुपमैःसुतम्॥
दृष्ट्वादशरथोराजाचक्रेचिन्तांपरन्तपः२९।
एषाह्यस्यपराप्रीतिर्हृदिसम्परिवर्तते॥
कदानामसुतंद्रक्ष्याम्यभिषिक्तमहंप्रियम्३०।
वृद्धिकामोहिलोकस्यसर्वभूतानुकम्पनः॥
मत्तःप्रियतरोलोकेपर्जन्यइववृष्टिमान्३१।
यमशक्रसमोवीर्येबृहस्पतिसमोमतौ॥
महीधरसमोधृत्यांमत्तश्चगुणवत्तरः३२।
महीमहमिमांकृत्स्नामधितिष्ठन्तमात्मजम्॥
अनेनवयसादृष्ट्वायथास्वर्गमवाप्नुयाम्३३।
तंसमीक्ष्यमहाराजोयुक्तंसमुदितैर्गुणैः॥
निश्चित्यसचिवैःसार्धंयुवराजममन्यत३४।
नानानगरवास्तव्यान्पृथग्जानपदानपि॥
समानिनायमेदिन्याःप्रधानान्पृथिवीपतिः३५।
अथराजवितीर्णेषुविविधेष्वासनेषुच॥
राजानमेवाभिमुखानिषेदुर्नियतानृपाः३६।
सलब्धमानैर्विनयान्वितैर्नृपैः॥
पुरालयैर्जानपदैश्चमानवैः।
उपोपविष्टैर्नृपतिर्वृतोबभौ॥
सहस्रचक्षुर्भगवानिवामरैः३७।