सर्ग (chapter):  

वाल्मीकिरामायणबालकाण्ड।
सर्ग॥

१॥

तपःस्वाध्यायनिरतंतपस्वीवाग्विदांवरम्।
नारदंपरिपप्रच्छवाल्मीकिर्मुनिपुङ्गवम्१॥

कोन्वस्मिन्साम्प्रतंलोकेगुणवान्कश्चवीर्यवान्।
धर्मज्ञश्चकृतज्ञश्चसत्यवाक्योदृढव्रतः२॥

चारित्रेणचकोयुक्तःसर्वभूतेषुकोहितः।
विद्वान्कःकःसमर्थश्चकश्चैकप्रियदर्शनः३॥

आत्मवान्कोजितक्रोधोमतिमान्कोऽनसूयकः।
कस्यबिभ्यतिदेवाश्चजातरोषस्यसंयुगे४॥

एतदिच्छाम्यहंश्रोतुंपरंकौतूहलंहिमे।
महर्षेत्वंसमर्थोऽसिज्ञातुमेवंविधंनरम्५॥

श्रुत्वाचैतत्त्रिलोकज्ञोवाल्मीकेर्नारदोवचः।
श्रूयतामितिचामन्त्र्यप्रहृष्टोवाक्यमब्रवीत्६॥

बहवोदुर्लभाश्चैवयेत्वयाकीर्तितागुणाः।
मुनेवक्ष्याम्यहंबुद्ध्वातैर्युक्तःश्रूयतांनरः७॥

इक्ष्वाकुवंशप्रभवोरामोनामजनैःश्रुतः।
नियतात्मामहावीर्योद्युतिमान्धृतिमान्वशी८॥

बुद्धिमान्नीतिमान्वाग्मीश्रीमाञ्शत्रुनिबर्हणः।
विपुलांसोमहाबाहुःकम्बुग्रीवोमहाहनुः९॥

महोरस्कोमहेष्वासोगूढजत्रुररिन्दमः।
आजानुबाहुःसुशिराःसुललाटःसुविक्रमः१०॥

समःसमविभक्ताङ्गःस्निग्धवर्णःप्रतापवान्।
पीनवक्षाविशालाक्षोलक्ष्मीवाञ्शुभलक्षणः११॥

धर्मज्ञःसत्यसन्धश्चप्रजानांचहितेरतः।
यशस्वीज्ञानसम्पन्नःशुचिर्वश्यःसमाधिमान्१२॥

रक्षिताजीवलोकस्यधर्मस्यपरिरक्षिता।
वेदवेदाङ्गतत्त्वज्ञोधनुर्वेदेचनिष्ठितः१३॥

सर्वशास्त्रार्थतत्त्वज्ञोस्मृतिमान्प्रतिभानवान्।
सर्वलोकप्रियःसाधुरदीनात्माविचक्षणः१४॥

सर्वदाभिगतःसद्भिःसमुद्रइवसिन्धुभिः।
आर्यःसर्वसमश्चैवसदैकप्रियदर्शनः१५॥

सचसर्वगुणोपेतःकौसल्यानन्दवर्धनः।
समुद्रइवगाम्भीर्येधैर्येणहिमवानिव१६॥

विष्णुनासदृशोवीर्येसोमवत्प्रियदर्शनः।
कालाग्निसदृशःक्रोधेक्षमयापृथिवीसमः१७॥

धनदेनसमस्त्यागेसत्येधर्मइवापरः।
तमेवङ्गुणसम्पन्नंरामंसत्यपराक्रमम्१८॥

ज्येष्ठंश्रेष्ठगुणैर्युक्तंप्रियंदशरथःसुतम्।
यौवराज्येनसंयोक्तुमैच्छत्प्रीत्यामहीपतिः१९॥

तस्याभिषेकसम्भारान्दृष्ट्वाभार्याथकैकयी।
पूर्वंदत्तवरादेवीवरमेनमयाचत॥

विवासनंचरामस्यभरतस्याभिषेचनम्२०।
ससत्यवचनाद्राजाधर्मपाशेनसंयतः॥

विवासयामाससुतंरामंदशरथःप्रियम्२१।
सजगामवनंवीरःप्रतिज्ञामनुपालयन्॥

पितुर्वचननिर्देशात्कैकेय्याःप्रियकारणात्२२।
तंव्रजन्तंप्रियोभ्रातालक्ष्मणोऽनुजगामह॥

स्नेहाद्विनयसम्पन्नःसुमित्रानन्दवर्धनः२३।
सर्वलक्षणसम्पन्नानारीणामुत्तमावधूः॥

सीताप्यनुगतारामंशशिनंरोहिणीयथा२४।
पौरैरनुगतोदूरंपित्रादशरथेनच॥

शृङ्गवेरपुरेसूतंगङ्गाकूलेव्यसर्जयत्२५।
तेवनेनवनंगत्वानदीस्तीर्त्वाबहूदकाः॥

चित्रकूटमनुप्राप्यभरद्वाजस्यशासनात्२६।
रम्यमावसथंकृत्वारममाणावनेत्रयः॥

देवगन्धर्वसङ्काशास्तत्रतेन्यवसन्सुखम्२७।
चित्रकूटंगतेरामेपुत्रशोकातुरस्तदा॥

राजादशरथःस्वर्गंजगामविलपन्सुतम्२८।
मृतेतुतस्मिन्भरतोवसिष्ठप्रमुखैर्द्विजैः॥

नियुज्यमानोराज्यायनैच्छद्राज्यंमहाबलः।
सजगामवनंवीरोरामपादप्रसादकः२९॥

पादुकेचास्यराज्यायन्यासंदत्त्वापुनःपुनः।
निवर्तयामासततोभरतंभरताग्रजः३०॥

सकाममनवाप्यैवरामपादावुपस्पृशन्।
नन्दिग्रामेऽकरोद्राज्यंरामागमनकाङ्क्षया३१॥

रामस्तुपुनरालक्ष्यनागरस्यजनस्यच।
तत्रागमनमेकाग्रेदण्डकान्प्रविवेशह३२॥

विराधंराक्षसंहत्वाशरभङ्गंददर्शह।
सुतीक्ष्णंचाप्यगस्त्यंचअगस्त्यभ्रातरंतथा३३॥

अगस्त्यवचनाच्चैवजग्राहैन्द्रंशरासनम्।
खड्गंचपरमप्रीतस्तूणीचाक्षयसायकौ३४॥

वसतस्तस्यरामस्यवनेवनचरैःसह।
ऋषयोऽभ्यागमन्सर्वेवधायासुररक्षसाम्३५॥

तेनतत्रैववसताजनस्थाननिवासिनी।
विरूपिताशूर्पणखाराक्षसीकामरूपिणी३६॥

ततःशूर्पणखावाक्यादुद्युक्तान्सर्वराक्षसान्।
खरंत्रिशिरसंचैवदूषणंचैवराक्षसं३७॥

निजघानरणेरामस्तेषांचैवपदानुगान्।
रक्षसांनिहतान्यासन्सहस्राणिचतुर्दश३८॥

ततोज्ञातिवधंश्रुत्वारावणःक्रोधमूर्छितः।
सहायंवरयामासमारीचंनामराक्षसं३९॥

वार्यमाणःसुबहुशोमारीचेनसरावणः।
नविरोधोबलवताक्षमोरावणतेनते४०॥

अनादृत्यतुतद्वाक्यंरावणःकालचोदितः।
जगामसहमरीचस्तस्याश्रमपदंतदा४१॥

तेनमायाविनादूरमपवाह्यनृपात्मजौ।
जहारभार्यांरामस्यगृध्रंहत्वाजटायुषम्४२॥

गृध्रंचनिहतंदृष्ट्वाहृतांश्रुत्वाचमैथिलीम्।
राघवःशोकसन्तप्तोविललापाकुलेन्द्रियः४३॥

ततस्तेनैवशोकेनगृध्रंदग्ध्वाजटायुषम्।
मार्गमाणोवनेसीतांराक्षसंसन्ददर्शह४४॥

कबन्धंनामरूपेणविकृतंघोरदर्शनम्।
तंनिहत्यमहाबाहुर्ददाहस्वर्गतश्चसः४५॥

सचास्यकथयामासशबरींधर्मचारिणीम्।
श्रमणींधर्मनिपुणामभिगच्छेतिराघव॥

सोऽभ्यगच्छन्महातेजाःशबरींशत्रुसूदनः४६।
शबर्यापूजितःसम्यग्रामोदशरथात्मजः॥

पम्पातीरेहनुमतासङ्गतोवानरेणह४७।
हनुमद्वचनाच्चैवसुग्रीवेणसमागतः॥

सुग्रीवायचतत्सर्वंशंसद्रामोमहाबलः४८।
ततोवानरराजेनवैरानुकथनंप्रति॥

रामायावेदितंसर्वंप्रणयाद्दुःखितेनच।
वालिनश्चबलंतत्रकथयामासवानरः४९॥

प्रतिज्ञातंचरामेणतदावालिवधंप्रति।
सुग्रीवःशङ्कितश्चासीन्नित्यंवीर्येणराघवे५०॥

राघवःप्रत्ययार्थंतुदुन्दुभेःकायमुत्तमम्।
पादाङ्गुष्ठेनचिक्षेपसम्पूर्णंदशयोजनम्५१॥

बिभेदचपुनःसालान्सप्तैकेनमहेषुणा।
गिरिंरसातलंचैवजनयन्प्रत्ययंतदा५२॥

ततःप्रीतमनास्तेनविश्वस्तःसमहाकपिः।
किष्किन्धांरामसहितोजगामचगुहांतदा५३॥

ततोऽगर्जद्धरिवरःसुग्रीवोहेमपिङ्गलः।
तेननादेनमहतानिर्जगामहरीश्वरः५४॥

ततःसुग्रीववचनाद्धत्वावालिनमाहवे।
सुग्रीवमेवतद्राज्येराघवःप्रत्यपादयत्५५॥

सचसर्वान्समानीयवानरान्वानरर्षभः।
दिशःप्रस्थापयामासदिदृक्षुर्जनकात्मजाम्५६॥

ततोगृध्रस्यवचनात्सम्पातेर्हनुमान्बली।
शतयोजनविस्तीर्णंपुप्लुवेलवणार्णवम्५७॥

तत्रलङ्कांसमासाद्यपुरींरावणपालिताम्।
ददर्शसीतांध्यायन्तीमशोकवनिकांगताम्५८॥

निवेदयित्वाभिज्ञानंप्रवृत्तिंचनिवेद्यच।
समाश्वास्यचवैदेहींमर्दयामासतोरणम्५९॥

पञ्चसेनाग्रगान्हत्वासप्तमन्त्रिसुतानपि।
शूरमक्षंचनिष्पिष्यग्रहणंसमुपागमत्६०॥

अस्त्रेणोन्मुहमात्मानंज्ञात्वापैतामहाद्वरात्।
मर्षयन्राक्षसान्वीरोयन्त्रिणस्तान्यदृच्छया६१॥

ततोदग्ध्वापुरींलङ्कामृतेसीतांचमैथिलीम्।
रामायप्रियमाख्यातुंपुनरायान्महाकपिः६२॥

सोऽभिगम्यमहात्मानंकृत्वारामंप्रदक्षिणम्।
न्यवेदयदमेयात्मादृष्टासीतेतितत्त्वतः६३॥

ततःसुग्रीवसहितोगत्वातीरंमहोदधेः।
समुद्रंक्षोभयामासशरैरादित्यसंनिभैः६४॥

दर्शयामासचात्मानंसमुद्रःसरितांपतिः।
समुद्रवचनाच्चैवनलंसेतुमकारयत्६५॥

तेनगत्वापुरींलङ्कांहत्वारावणमाहवे।
अभ्यषिञ्चत्सलङ्कायांराक्षसेन्द्रंविभीषणम्६६॥

कर्मणातेनमहतात्रैलोक्यंसचराचरम्।
सदेवर्षिगणंतुष्टंराघवस्यमहात्मनः६७॥

तथापरमसन्तुष्टैःपूजितःसर्वदैवतैः।
कृतकृत्यस्तदारामोविज्वरःप्रमुमोदह६८॥

देवताभ्योवरान्प्राप्यसमुत्थाप्यचवानरान्।
पुष्पकंतत्समारुह्यनन्दिग्रामंययौतदा६९॥

नन्दिग्रामेजटांहित्वाभ्रातृभिःसहितोऽनघः।
रामःसीतामनुप्राप्यराज्यंपुनरवाप्तवान्७०॥

प्रहृष्टमुदितोलोकस्तुष्टःपुष्टःसुधार्मिकः।
निरायमोअरोगश्चदुर्भिक्षभयवर्जितः७१॥

नपुत्रमरणंकेचिद्द्रक्ष्यन्तिपुरुषाःक्वचित्।
नार्यश्चाविधवानित्यंभविष्यन्तिपतिव्रताः७२॥

नवातजंभयंकिंचिन्नाप्सुमज्जन्तिजन्तवः।
नचाग्रिजंभयंकिंचिद्यथाकृतयुगेतथा७३॥

अश्वमेधशतैरिष्ट्वातथाबहुसुवर्णकैः।
गवांकोट्ययुतंदत्त्वाविद्वद्भ्योविधिपूर्वकम्७४॥

राजवंशाञ्शतगुणान्स्थापयिष्यतिराघवः।
चातुर्वर्ण्यंचलोकेऽस्मिन्स्वेस्वेधर्मेनियोक्ष्यति७५॥

दशवर्षसहस्राणिदशवर्षशतानिच।
रामोराज्यमुपासित्वाब्रह्मलोकंगमिष्यति ७६॥

इदंपवित्रंपापघ्नंपुण्यंवेदैश्चसंमितम्।
यःपठेद्रामचरितंसर्वपापैःप्रमुच्यते७७॥

एतदाख्यानमायुष्यंपठन्रामायणंनरः।
सपुत्रपौत्रःसगणःप्रेत्यस्वर्गेमहीयते७८॥

पठन्द्विजोवागृषभत्वमीयात्।
स्यात्क्षत्रियोभूमिपतित्वमीयात्॥

वणिग्जनःपण्यफलत्वमीयाज्।
जनश्चशूद्रोऽपिमहत्त्वमीयात्७९॥