वाल्मीकिरामायणकिष्किन्धाकाण्ड।
सर्ग॥
१॥
सतांपुष्करिणींगत्वापद्मोत्पलझषाकुलाम्।
रामःसौमित्रिसहितोविललापाकुलेन्द्रियः१॥
तस्यदृष्ट्वैवतांहर्षादिन्द्रियाणिचकम्पिरे।
सकामवशमापन्नःसौमित्रिमिदमब्रवीत्२॥
सौमित्रेपश्यपम्पायाःकाननंशुभदर्शनम्।
यत्रराजन्तिशैलाभाद्रुमाःसशिखराइव३॥
मांतुशोकाभिसन्तप्तमाधयःपीडयन्तिवै।
भरतस्यचदुःखेनवैदेह्याहरणेनच४॥
अधिकंप्रविभात्येतन्नीलपीतंतुशाद्वलम्।
द्रुमाणांविविधैःपुष्पैःपरिस्तोमैरिवार्पितम्५॥
सुखानिलोऽयंसौमित्रेकालःप्रचुरमन्मथः।
गन्धवान्सुरभिर्मासोजातपुष्पफलद्रुमः६॥
पश्यरूपाणिसौमित्रेवनानांपुष्पशालिनाम्।
सृजतांपुष्पवर्षाणिवर्षंतोयमुचाम्इव७॥
प्रस्तरेषुचरम्येषुविविधाःकाननद्रुमाः।
वायुवेगप्रचलिताःपुष्पैरवकिरन्तिगाम्८॥
मारुतःसुखंसंस्पर्शेवातिचन्दनशीतलः।
षट्पदैरनुकूजद्भिर्वनेषुमधुगन्धिषु९॥
गिरिप्रस्थेषुरम्येषुपुष्पवद्भिर्मनोरमैः।
संसक्तशिखराशैलाविराजन्तिमहाद्रुमैः१०॥
पुष्पिताग्रांश्चपश्येमान्कर्णिकारान्समन्ततः।
हाटकप्रतिसञ्चन्नान्नरान्पीताम्बरानिव११॥
अयंवसन्तःसौमित्रेनानाविहगनादितः।
सीतयाविप्रहीणस्यशोकसन्दीपनोमम१२॥
मांहिशोकसमाक्रान्तंसन्तापयतिमन्मथः।
हृष्टःप्रवदमानश्चसमाह्वयतिकोकिलः१३॥
एषदात्यूहकोहृष्टोरम्येमांवननिर्झरे।
प्रणदन्मन्मथाविष्टंशोचयिष्यतिलक्ष्मण१४॥
विमिश्राविहगाःपुम्भिरात्मव्यूहाभिनन्दिताः।
भृङ्गराजप्रमुदिताःसौमित्रेमधुरस्वराः१५॥
मांहिसामृगशावाक्षीचिन्ताशोकबलात्कृतम्।
सन्तापयतिसौमित्रेक्रूरश्चैत्रवनानिलः१६॥
शिखिनीभिःपरिवृतामयूरागिरिसानुषु।
मन्मथाभिपरीतस्यमममन्मथवर्धनाः१७॥
पश्यलक्ष्णमनृत्यन्तंमयूरमुपनृत्यति।
शिखिनीमन्मथार्तैषाभर्तारंगिरिसानुषु१८॥
मयूरस्यवनेनूनंरक्षसानहृताप्रिया।
ममत्वयंविनावासःपुष्पमासेसुदुःसहः१९॥
पश्यलक्ष्मणपुष्पाणिनिष्फलानिभवन्तिमे।
पुष्पभारसमृद्धानांवनानांशिशिरात्यये२०॥
वदन्तिरावंमुदिताःशकुनाःसङ्घशःकलम्।
आह्वयन्तइवान्योन्यंकामोन्मादकरामम२१॥
नूनंपरवशासीतासापिशोचत्यहंयथा।
श्यामापद्मपलाशाक्षीमृदुभाषाचमेप्रिया२२॥
एषपुष्पवहोवायुःसुखस्पर्शोहिमावहः।
तांविचिन्तयतःकान्तांपावकप्रतिमोमम२३॥
तांविनाथविहङ्गोऽसौपक्षीप्रणदितस्तदा।
वायसःपादपगतःप्रहृष्टमभिनर्दति२४॥
एषवैतत्रवैदेह्याविहगःप्रतिहारकः।
पक्षीमांतुविशालाक्ष्याःसमीपमुपनेष्यति२५॥
पश्यलक्ष्मणसंनादंवनेमदविवर्धनम्।
पुष्पिताग्रेषुवृक्षेषुद्विजानामुपकूजताम्२६॥
सौमित्रेपश्यपम्पायाश्चित्रासुवनराजिषु।
नलिनानिप्रकाशन्तेजलेतरुणसूर्यवत्२७॥
एषाप्रसन्नसलिलापद्मनीलोत्पलायता।
हंसकारण्डवाकीर्णापम्पासौगन्धिकायुता२८॥
चक्रवाकयुतानित्यंचित्रप्रस्थवनान्तरा।
मातङ्गमृगयूथैश्चशोभतेसलिलार्थिभिः२९॥
पद्मकोशपलाशानिद्रष्टुंदृष्टिर्हिमन्यते।
सीतायानेत्रकोशाभ्यांसदृशानीतिलक्ष्मण३०॥
पद्मकेसरसंसृष्टोवृक्षान्तरविनिःसृतः।
निःश्वासइवसीतायावातिवायुर्मनोहरः३१॥
सौमित्रेपश्यपम्पायादक्षिणेगिरिसानुनि।
पुष्पितांकर्णिकारस्ययष्टिंपरमशोभनाम्३२॥
अधिकंशैलराजोऽयंधातुभिस्तुविभूषितः।
विचित्रंसृजतेरेणुंवायुवेगविघट्टितम्३३॥
गिरिप्रस्थास्तुसौमित्रेसर्वतःसम्प्रपुष्पितैः।
निष्पत्रैःसर्वतोरम्यैःप्रदीपाइवकुंशुकैः३४॥
पम्पातीररुहाश्चेमेसंसक्तामधुगन्धिनः।
मालतीमल्लिकाषण्डाःकरवीराश्चपुष्पिताः३५॥
केतक्यःसिन्दुवाराश्चवासन्त्यश्चसुपुष्पिताः।
माधव्योगन्धपूर्णाश्चकुन्दगुल्माश्चसर्वशः३६॥
चिरिबिल्वामधूकाश्चवञ्जुलाबकुलास्तथा।
चम्पकास्तिलकाश्चैवनागवृक्षाश्चपुष्पिताः३७॥
नीपाश्चवरणाश्चैवखर्जूराश्चसुपुष्पिताः।
अङ्कोलाश्चकुरण्टाश्चचूर्णकाःपारिभद्रकाः३८॥
चूताःपाटलयश्चैवकोविदाराश्चपुष्पिताः।
मुचुकुन्दार्जुनाश्चैवदृश्यन्तेगिरिसानुषु३९॥
केतकोद्दालकाश्चैवशिरीषाःशिंशपाधवाः।
शाल्मल्यःकिंशुकाश्चैवरक्ताःकुरबकास्तथा॥
तिनिशानक्तमालाश्चचन्दनाःस्यन्दनास्तथा४०।
विविधाविविधैःपुष्पैस्तैरेवनगसानुषु॥
विकीर्णैःपीतरक्ताभाःसौमित्रेप्रस्तराःकृताः४१।
हिमान्तेपश्यसौमित्रेवृक्षाणांपुष्पसम्भवम्॥
पुष्पमासेहितरवःसङ्घर्षादिवपुष्पिताः४२।
पश्यशीतजलांचेमांसौमित्रेपुष्करायुताम्॥
चक्रवाकानुचरितांकारण्डवनिषेविताम्।
प्लवैःक्रौञ्चैश्चसम्पूर्णांवराहमृगसेविताम्४३॥
अधिकंशोभतेपम्पाविकूजद्भिर्विहङ्गमैः४४।
दीपयन्तीवमेकामंविविधामुदिताद्विजाः॥
श्यामांचन्द्रमुखींस्मृत्वाप्रियांपद्मनिभेक्षणाम्४५।
पयसानुषुचित्रेषुमृगीभिःसहितान्मृगान्॥
मांपुनर्मृगशावाक्ष्यावैदेह्याविरहीकृतम्४६।
एवंसविलपंस्तत्रशोकोपहतचेतनः॥
अवेक्षतशिवांपम्पांरम्यवारिवहांशुभाम्४७।
निरीक्षमाणःसहसामहात्मा॥
सर्वंवनंनिर्झरकन्दरंच।
उद्विग्नचेताःसहलक्ष्मणेन॥
विचार्यदुःखोपहतःप्रतस्थे४८।
तावृष्यमूकंसहितौप्रयातौ॥
सुग्रीवशाखामृगसेवितंतम्।
त्रस्तास्तुदृष्ट्वाहरयोबभूवुर्॥
महौजसौराघवलक्ष्मणौतौ४९।