सर्ग (chapter):  

वाल्मीकिरामायणसुन्दरकाण्ड।
सर्ग॥

१॥

ततोरावणनीतायाःसीतायाःशत्रुकर्शनः।
इयेषपदमन्वेष्टुंचारणाचरितेपथि१॥

अथवैदूर्यवर्णेषुशाद्वलेषुमहाबलः।
धीरःसलिलकल्पेषुविचचारयथासुखम्२॥

द्विजान्वित्रासयन्धीमानुरसापादपान्हरन्।
मृगांश्चसुबहून्निघ्नन्प्रवृद्धइवकेसरी३॥

नीललोहितमाञ्जिष्ठपद्मवर्णैःसितासितैः।
स्वभावविहितैश्चित्रैर्धातुभिःसमलङ्कृतम्४॥

कामरूपिभिराविष्टमभीक्ष्णंसपरिच्छदैः।
यक्षकिंनरगन्धर्वैर्देवकल्पैश्चपन्नगैः५॥

सतस्यगिरिवर्यस्यतलेनागवरायुते।
तिष्ठन्कपिवरस्तत्रह्रदेनागइवाबभौ६॥

ससूर्यायमहेन्द्रायपवनायस्वयम्भुवे।
भूतेभ्यश्चाञ्जलिंकृत्वाचकारगमनेमतिम्७॥

अञ्जलिंप्राङ्मुखःकुर्वन्पवनायात्मयोनये।
ततोहिववृधेगन्तुंदक्षिणोदक्षिणांदिशम्८॥

प्लवङ्गप्रवरैर्दृष्टःप्लवनेकृतनिश्चयः।
ववृधेरामवृद्ध्यर्थंसमुद्रइवपर्वसु९॥

निष्प्रमाणशरीरःसँल्लिलङ्घयिषुरर्णवम्।
बाहुभ्यांपीडयामासचरणाभ्यांचपर्वतम्१०॥

सचचालाचलाश्चारुमुहूर्तंकपिपीडितः।
तरूणांपुष्पिताग्राणांसर्वंपुष्पमशातयत्११॥

तेनपादपमुक्तेनपुष्पौघेणसुगन्धिना।
सर्वतःसंवृतःशैलोबभौपुष्पमयोयथा१२॥

तेनचोत्तमवीर्येणपीड्यमानःसपर्वतः।
सलिलंसम्प्रसुस्रावमदंमत्तइवद्विपः१३॥

पीड्यमानस्तुबलिनामहेन्द्रस्तेनपर्वतः।
रीतिर्निर्वर्तयामासकाञ्चनाञ्जनराजतीः॥

मुमोचचशिलाःशैलोविशालाःसमनःशिलाः१४।
गिरिणापीड्यमानेनपीड्यमानानिसर्वशः॥

गुहाविष्टानिभूतानिविनेदुर्विकृतैःस्वरैः१५।
समहासत्त्वसंनादःशैलपीडानिमित्तजः॥

पृथिवींपूरयामासदिशश्चोपवनानिच१६।
शिरोभिःपृथुभिःसर्पाव्यक्तस्वस्तिकलक्षणैः॥

वमन्तःपावकंघोरंददंशुर्दशनैःशिलाः१७।
तास्तदासविषैर्दष्टाःकुपितैस्तैर्महाशिलाः॥

जज्वलुःपावकोद्दीप्ताविभिदुश्चसहस्रधा१८।
यानिचौषधजालानितस्मिञ्जातानिपर्वते॥

विषघ्नान्यपिनागानांनशेकुःशमितुंविषम्१९।
भिद्यतेऽयंगिरिर्भूतैरितिमत्वातपस्विनः॥

त्रस्ताविद्याधरास्तस्मादुत्पेतुःस्त्रीगणैःसह२०।
पानभूमिगतंहित्वाहैममासनभाजनम्॥

पात्राणिचमहार्हाणिकरकांश्चहिरण्मयान्२१।
लेह्यानुच्चावचान्भक्ष्यान्मांसानिविविधानिच॥

आर्षभाणिचचर्माणिखड्गांश्चकनकत्सरून्२२।
कृतकण्ठगुणाःक्षीबारक्तमाल्यानुलेपनाः॥

रक्ताक्षाःपुष्कराक्षाश्चगगनंप्रतिपेदिरे२३।
हारनूपुरकेयूरपारिहार्यधराःस्त्रियः॥

विस्मिताःसस्मितास्तस्थुराकाशेरमणैःसह२४।
दर्शयन्तोमहाविद्यांविद्याधरमहर्षयः॥

सहितास्तस्थुराकाशेवीक्षांचक्रुश्चपर्वतम्२५।
शुश्रुवुश्चतदाशब्दमृषीणांभावितात्मनाम्॥

चारणानांचसिद्धानांस्थितानांविमलेऽम्बरे२६।
एषपर्वतसङ्काशोहनूमान्मारुतात्मजः॥

तितीर्षतिमहावेगंसमुद्रंमकरालयम्२७।
रामार्थंवानरार्थंचचिकीर्षन्कर्मदुष्करम्॥

समुद्रस्यपरंपारंदुष्प्रापंप्राप्तुमिच्छति२८।
दुधुवेचसरोमाणिचकम्पेचाचलोपमः॥

ननादचमहानादंसुमहानिवतोयदः२९।
आनुपूर्व्याच्चवृत्तंचलाङ्गूलंरोमभिश्चितम्॥

उत्पतिष्यन्विचिक्षेपपक्षिराजइवोरगम्३०।
तस्यलाङ्गूलमाविद्धमतिवेगस्यपृष्ठतः॥

ददृशेगरुडेनेवह्रियमाणोमहोरगः३१।
बाहूसंस्तम्भयामासमहापरिघसंनिभौ॥

ससादचकपिःकट्यांचरणौसञ्चुकोपच३२।
संहृत्यचभुजौश्रीमांस्तथैवचशिरोधराम्॥

तेजःसत्त्वंतथावीर्यमाविवेशसवीर्यवान्३३।
मार्गमालोकयन्दूरादूर्ध्वप्रणिहितेक्षणः॥

रुरोधहृदयेप्राणानाकाशमवलोकयन्३४।
पद्भ्यांदृढमवस्थानंकृत्वासकपिकुञ्जरः॥

निकुञ्च्यकर्णौहनुमानुत्पतिष्यन्महाबलः।
वानरान्वानरश्रेष्ठइदंवचनमब्रवीत्३५॥

यथाराघवनिर्मुक्तःशरःश्वसनविक्रमः।
गच्छेत्तद्वद्गमिष्यामिलङ्कांरावणपालिताम्३६॥

नहिद्रक्ष्यामियदितांलङ्कायांजनकात्मजाम्।
अनेनैवहिवेगेनगमिष्यामिसुरालयम्३७॥

यदिवात्रिदिवेसीतांनद्रक्ष्यामिकृतश्रमः।
बद्ध्वाराक्षसराजानमानयिष्यामिरावणम्३८॥

सर्वथाकृतकार्योऽहमेष्यामिसहसीतया।
आनयिष्यामिवालङ्कांसमुत्पाट्यसरावणाम्३९॥

एवमुक्त्वातुहनुमान्वानरान्वानरोत्तमः।
उत्पपाताथवेगेनवेगवानविचारयन्४०॥

समुत्पततितस्मिंस्तुवेगात्तेनगरोहिणः।
संहृत्यविटपान्सर्वान्समुत्पेतुःसमन्ततः४१॥

समत्तकोयष्टिभकान्पादपान्पुष्पशालिनः।
उद्वहन्नूरुवेगेनजगामविमलेऽम्बरे४२॥

ऊरुवेगोद्धतावृक्षामुहूर्तंकपिमन्वयुः।
प्रस्थितंदीर्घमध्वानंस्वबन्धुमिवबान्धवाः४३॥

तमूरुवेगोन्मथिताःसालाश्चान्येनगोत्तमाः।
अनुजग्मुर्हनूमन्तंसैन्याइवमहीपतिम्४४॥

सुपुष्पिताग्रैर्बहुभिःपादपैरन्वितःकपिः।
हनुमान्पर्वताकारोबभूवाद्भुतदर्शनः४५॥

सारवन्तोऽथयेवृक्षान्यमज्जँल्लवणाम्भसि।
भयादिवमहेन्द्रस्यपर्वतावरुणालये४६॥

सनानाकुसुमैःकीर्णःकपिःसाङ्कुरकोरकैः।
शुशुभेमेघसङ्काशःखद्योतैरिवपर्वतः४७॥

विमुक्तास्तस्यवेगेनमुक्त्वापुष्पाणितेद्रुमाः।
अवशीर्यन्तसलिलेनिवृत्ताःसुहृदोयथा४८॥

लघुत्वेनोपपन्नंतद्विचित्रंसागरेऽपतत्।
द्रुमाणांविविधंपुष्पंकपिवायुसमीरितम्४९॥

पुष्पौघेणानुबद्धेननानावर्णेनवानरः।
बभौमेघइवोद्यन्वैविद्युद्गणविभूषितः५०॥

तस्यवेगसमुद्भूतैःपुष्पैस्तोयमदृश्यत।
ताराभिरभिरामाभिरुदिताभिरिवाम्बरम्५१॥

तस्याम्बरगतौबाहूददृशातेप्रसारितौ।
पर्वताग्राद्विनिष्क्रान्तौपञ्चास्याविवपन्नगौ५२॥

पिबन्निवबभौचापिसोर्मिजालंमहार्णवम्।
पिपासुरिवचाकाशंददृशेसमहाकपिः५३॥

तस्यविद्युत्प्रभाकारेवायुमार्गानुसारिणः।
नयनेविप्रकाशेतेपर्वतस्थाविवानलौ५४॥

पिङ्गेपिङ्गाक्षमुख्यस्यबृहतीपरिमण्डले।
चक्षुषीसम्प्रकशेतेचन्द्रसूर्याविवस्थितौ५५॥

मुखंनासिकयातस्यताम्रयाताम्रमाबभौ।
सन्ध्ययासमभिस्पृष्टंयथासूर्यस्यमण्डलम्५६॥

लाङ्गलंचसमाविद्धंप्लवमानस्यशोभते।
अम्बरेवायुपुत्रस्यशक्रध्वजइवोच्छ्रितः५७॥

लाङ्गूलचक्रेणमहाञ्शुक्लदंष्ट्रोऽनिलात्मजः।
व्यरोचतमहाप्राज्ञःपरिवेषीवभास्करः५८॥

स्फिग्देशेनाभिताम्रेणरराजसमहाकपिः।
महतादारितेनेवगिरिर्गैरिकधातुना५९॥

तस्यवानरसिंहस्यप्लवमानस्यसागरम्।
कक्षान्तरगतोवायुर्जीमूतइवगर्जति६०॥

खेयथानिपतत्युल्काउत्तरान्ताद्विनिःसृता।
दृश्यतेसानुबन्धाचतथासकपिकुञ्जरः६१॥

पतत्पतङ्गसङ्काशोव्यायतःशुशुभेकपिः।
प्रवृद्धइवमातङ्गःकक्ष्ययाबध्यमानया६२॥

उपरिष्टाच्छरीरेणछाययाचावगाढया।
सागरेमारुताविष्टानौरिवासीत्तदाकपिः६३॥

यंयंदेशंसमुद्रस्यजगामसमहाकपिः।
ससतस्याङ्गवेगेनसोन्मादइवलक्ष्यते६४॥

सागरस्योर्मिजालानामुरसाशैलवर्ष्मणाम्।
अभिघ्नंस्तुमहावेगःपुप्लुवेसमहाकपिः६५॥

कपिवातश्चबलवान्मेघवातश्चनिःसृतः।
सागरंभीमनिर्घोषंकम्पयामासतुर्भृशम्६६॥

विकर्षन्नूर्मिजालानिबृहन्तिलवणाम्भसि।
अत्यक्रामन्महावेगस्तरङ्गान्गणयन्निव६७॥

प्लवमानंसमीक्ष्याथभुजङ्गाःसागरालयाः।
व्योम्नितंकपिशार्दूलंसुपर्णमितिमेनिरे६८॥

दशयोजनविस्तीर्णात्रिंशद्योजनमायता।
छायावानरसिंहस्यजलेचारुतराभवत्६९॥

श्वेताभ्रघनराजीववायुपुत्रानुगामिनी।
तस्यसाशुशुभेछायाविततालवणाम्भसि७०॥

प्लवमानंतुतंदृष्ट्वाप्लवगंत्वरितंतदा।
ववृषुःपुष्पवर्षाणिदेवगन्धर्वदानवाः७१॥

ततापनहितंसूर्यःप्लवन्तंवानरेश्वरम्।
सिषेवेचतदावायूरामकार्यार्थसिद्धये७२॥

ऋषयस्तुष्टुवुश्चैनंप्लवमानंविहायसा।
जगुश्चदेवगन्धर्वाःप्रशंसन्तोमहौजसं७३॥

नागाश्चतुष्टुवुर्यक्षारक्षांसिविबुधाःखगाः।
प्रेक्ष्याकाशेकपिवरंसहसाविगतक्लमम्७४॥

तस्मिन्प्लवगशार्दूलेप्लवमानेहनूमति।
इक्ष्वाकुकुलमानार्थीचिन्तयामाससागरः७५॥

साहाय्यंवानरेन्द्रस्ययदिनाहंहनूमतः।
करिष्यामिभविष्यामिसर्ववाच्योविवक्षताम्७६॥

अहमिक्ष्वाकुनाथेनसगरेणविवर्धितः।
इक्ष्वाकुसचिवश्चायंनावसीदितुमर्हति७७॥

तथामयाविधातव्यंविश्रमेतयथाकपिः।
शेषंचमयिविश्रान्तःसुखेनातिपतिष्यति७८॥

इतिकृत्वामतिंसाध्वींसमुद्रश्छन्नमम्भसि।
हिरण्यनाभंमैनाकमुवाचगिरिसत्तमम्७९॥

त्वमिहासुरसङ्घानांपातालतलवासिनाम्।
देवराज्ञागिरिश्रेष्ठपरिघःसंनिवेशितः८०॥

त्वमेषांज्ञातवीर्याणांपुनरेवोत्पतिष्यताम्।
पातालस्याप्रमेयस्यद्वारमावृत्यतिष्ठसि८१॥

तिर्यगूर्ध्वमधश्चैवशक्तिस्तेशैलवर्धितुम्।
तस्मात्सञ्चोदयामित्वामुत्तिष्ठनगसत्तम८२॥

सएषकपिशार्दूलस्त्वामुपर्येतिवीर्यवान्।
हनूमान्रामकार्यार्थंभीमकर्माखमाप्लुतः८३॥

तस्यसाह्यंमयाकार्यमिक्ष्वाकुकुलवर्तिनः।
ममइक्ष्वाकवःपूज्याःपरंपूज्यतमास्तव८४॥

कुरुसाचिव्यमस्माकंननःकार्यमतिक्रमेत्।
कर्तव्यमकृतंकार्यंसतांमन्युमुदीरयेत्८५॥

सलिलादूर्ध्वमुत्तिष्ठतिष्ठत्वेषकपिस्त्वयि।
अस्माकमतिथिश्चैवपूज्यश्चप्लवतांवरः८६॥

चामीकरमहानाभदेवगन्धर्वसेवित।
हनूमांस्त्वयिविश्रान्तस्ततःशेषंगमिष्यति८७॥

काकुत्स्थस्यानृशंस्यंचमैथिल्याश्चविवासनम्।
श्रमंचप्लवगेन्द्रस्यसमीक्ष्योत्थातुमर्हसि८८॥

हिरण्यनाभोमैनाकोनिशम्यलवणाम्भसः।
उत्पपातजलात्तूर्णंमहाद्रुमलतायुतः८९॥

ससागरजलंभित्त्वाबभूवात्युत्थितस्तदा।
यथाजलधरंभित्त्वादीप्तरश्मिर्दिवाकरः९०॥

शातकुम्भमयैःशृङ्गैःसकिंनरमहोरगैः।
आदित्योदयसङ्काशैरालिखद्भिरिवाम्बरम्९१॥

तस्यजाम्बूनदैःशृङ्गैःपर्वतस्यसमुत्थितैः।
आकाशंशस्त्रसङ्काशमभवत्काञ्चनप्रभम्९२॥

जातरूपमयैःशृङ्गैर्भ्राजमानैःस्वयंप्रभैः।
आदित्यशतसङ्काशःसोऽभवद्गिरिसत्तमः९३॥

तमुत्थितमसङ्गेनहनूमानग्रतःस्थितम्।
मध्येलवणतोयस्यविघ्नोऽयमितिनिश्चितः९४॥

सतमुच्छ्रितमत्यर्थंमहावेगोमहाकपिः।
उरसापातयामासजीमूतमिवमारुतः९५॥

सतदापातितस्तेनकपिनापर्वतोत्तमः।
बुद्ध्वातस्यकपेर्वेगंजहर्षचननन्दच९६॥

तमाकाशगतंवीरमाकाशेसमवस्थितम्।
प्रीतोहृष्टमनावाक्यमब्रवीत्पर्वतःकपिम्॥

मानुषंधरयन्रूपमात्मनःशिखरेस्थितः९७।
दुष्करंकृतवान्कर्मत्वमिदंवानरोत्तम॥

निपत्यममशृङ्गेषुविश्रमस्वयथासुखम्९८।
राघावस्यकुलेजातैरुदधिःपरिवर्धितः॥

सत्वांरामहितेयुक्तंप्रत्यर्चयतिसागरः९९।
कृतेचप्रतिकर्तव्यमेषधर्मःसनातनः॥

सोऽयंतत्प्रतिकारार्थीत्वत्तःसंमानमर्हति१००।
त्वन्निमित्तमनेनाहंबहुमानात्प्रचोदितः॥

योजनानांशतंचापिकपिरेषसमाप्लुतः।
तवसानुषुविश्रान्तःशेषंप्रक्रमताम्इति१०१॥

तिष्ठत्वंहरिशार्दूलमयिविश्रम्यगम्यताम्।
तदिदंगन्धवत्स्वादुकन्दमूलफलंबहु॥

तदास्वाद्यहरिश्रेष्ठविश्रान्तोऽनुगमिष्यसि१०२।
अस्माकमपिसम्बन्धःकपिमुख्यस्त्वयास्तिवै॥

प्रख्यतस्त्रिषुलोकेषुमहागुणपरिग्रहः१०३।
वेगवन्तःप्लवन्तोयेप्लवगामारुतात्मज॥

तेषांमुख्यतमंमन्येत्वामहंकपिकुञ्जर१०४।
अतिथिःकिलपूजार्हःप्राकृतोऽपिविजानता॥

धर्मंजिज्ञासमानेनकिंपुनर्यादृशोभवान्१०५।
त्वंहिदेववरिष्ठस्यमारुतस्यमहात्मनः॥

पुत्रस्तस्यैववेगेनसदृशःकपिकुञ्जर१०६।
पूजितेत्वयिधर्मज्ञपूजांप्राप्नोतिमारुतः॥

तस्मात्त्वंपूजनीयोमेशृणुचाप्यत्रकारणम्१०७।
पूर्वंकृतयुगेतातपर्वताःपक्षिणोऽभवन्॥

तेऽपिजग्मुर्दिशःसर्वागरुडानिलवेगिनः१०८।
ततस्तेषुप्रयातेषुदेवसङ्घाःसहर्षिभिः॥

भूतानिचभयंजग्मुस्तेषांपतनशङ्कया१०९।
ततःक्रुद्धःसहस्राक्षःपर्वतानांशतक्रतुः॥

पक्षांश्चिच्छेदवज्रेणतत्रतत्रसहस्रशः११०।
समामुपगतःक्रुद्धोवज्रमुद्यम्यदेवराट्॥

ततोऽहंसहसाक्षिप्तःश्वसनेनमहात्मना१११।
अस्मिँल्लवणतोयेचप्रक्षिप्तःप्लवगोत्तम॥

गुप्तपक्षःसमग्रश्चतवपित्राभिरक्षितः११२।
ततोऽहंमानयामित्वांमान्योहिमममारुतः॥

त्वयामेह्येषसम्बन्धःकपिमुख्यमहागुणः११३।
अस्मिन्नेवङ्गतेकार्येसागरस्यममैवच॥

प्रीतिंप्रीतमनाकर्तुंत्वमर्हसिमहाकपे११४।
श्रमंमोक्षयपूजांचगृहाणकपिसत्तम॥

प्रीतिंचबहुमन्यस्वप्रीतोऽस्मितवदर्शनात्११५।
एवमुक्तःकपिश्रेष्ठस्तंनगोत्तममब्रवीत्॥

प्रीतोऽस्मिकृतमातिथ्यंमन्युरेषोऽपनीयताम्११६।
त्वरतेकार्यकालोमेअहश्चाप्यतिवर्तते॥

प्रतिज्ञाचमयादत्तानस्थातव्यमिहान्तरा११७।
इत्युक्त्वापाणिनाशैलमालभ्यहरिपुङ्गवः॥

जगामाकाशमाविश्यवीर्यवान्प्रहसन्निव११८।
सपर्वतसमुद्राभ्यांबहुमानादवेक्षितः॥

पूजितश्चोपपन्नाभिराशीर्भिरनिलात्मजः११९।
अथोर्ध्वंदूरमुत्पत्यहित्वाशैलमहार्णवौ॥

पितुःपन्थानमास्थायजगामविमलेऽम्बरे१२०।
भूयश्चोर्ध्वगतिंप्राप्यगिरिंतमवलोकयन्॥

वायुसूनुर्निरालम्बेजगामविमलेऽम्बरे१२१।
तद्द्वितीयंहनुमतोदृष्ट्वाकर्मसुदुष्करम्॥

प्रशशंसुःसुराःसर्वेसिद्धाश्चपरमर्षयः१२२।
देवताश्चाभवन्हृष्टास्तत्रस्थास्तस्यकर्मणा॥

काञ्चनस्यसुनाभस्यसहस्राक्षश्चवासवः१२३।
उवाचवचनंधीमान्परितोषात्सगद्गदम्॥

सुनाभंपर्वतश्रेष्ठंस्वयमेवशचीपतिः१२४।
हिरण्यनाभशैलेन्द्रपरितुष्टोऽस्मितेभृशम्॥

अभयंतेप्रयच्छामितिष्ठसौम्ययथासुखम्१२५।
साह्यंकृतंतेसुमहद्विक्रान्तस्यहनूमतः॥

क्रमतोयोजनशतंनिर्भयस्यभयेसति१२६।
रामस्यैषहिदौत्येनयातिदाशरथेर्हरिः॥

सत्क्रियांकुर्वताशक्यातोषितोऽस्मिदृढंत्वया१२७।
ततःप्रहर्षमलभद्विपुलंपर्वतोत्तमः॥

देवतानांपतिंदृष्ट्वापरितुष्टंशतक्रतुम्१२८।
सवैदत्तवरःशैलोबभूवावस्थितस्तदा॥

हनूमांश्चमुहूर्तेनव्यतिचक्रामसागरम्१२९।
ततोदेवाःसगन्धर्वाःसिद्धाश्चपरमर्षयः॥

अब्रुवन्सूर्यसङ्काशांसुरसांनागमातरम्१३०।
अयंवातात्मजःश्रीमान्प्लवतेसागरोपरि॥

हनूमान्नामतस्यत्वंमुहूर्तंविघ्नमाचर१३१।
राक्षसंरूपमास्थायसुघोरंपर्वतोपमम्॥

दंष्ट्राकरालंपिङ्गाक्षंवक्त्रंकृत्वानभःस्पृशम्१३२।
बलमिच्छामहेज्ञातुंभूयश्चास्यपराक्रमम्॥

त्वांविजेष्यत्युपायेनविषदंवागमिष्यति१३३।
एवमुक्तातुसादेवीदैवतैरभिसत्कृता॥

समुद्रमध्येसुरसाबिभ्रतीराक्षसंवपुः१३४।
विकृतंचविरूपंचसर्वस्यचभयावहम्॥

प्लवमानंहनूमन्तमावृत्येदमुवाचह१३५।
ममभक्षःप्रदिष्टस्त्वमीश्वरैर्वानरर्षभ॥

अहंत्वांभक्षयिष्यामिप्रविशेदंममाननम्१३६।
एवमुक्तःसुरसयाप्राञ्जलिर्वानरर्षभः॥

प्रहृष्टवदनःश्रीमानिदंवचनमब्रवीत्१३७।
रामोदाशरथिर्नामप्रविष्टोदण्डकावनम्॥

लक्ष्मणेनसहभ्रात्रावैदेह्याचापिभार्यया१३८।
अस्यकार्यविषक्तस्यबद्धवैरस्यराक्षसैः॥

तस्यसीताहृताभार्यारावणेनयशस्विनी१३९।
तस्याःसकाशंदूतोऽहंगमिष्येरामशासनात्॥

कर्तुमर्हसिरामस्यसाह्यंविषयवासिनि१४०।
अथवामैथिलींदृष्ट्वारामंचाक्लिष्टकारिणम्॥

आगमिष्यामितेवक्त्रंसत्यंप्रतिशृणोमिते१४१।
एवमुक्ताहनुमतासुरसाकामरूपिणी॥

अब्रवीन्नातिवर्तेन्मांकश्चिदेषवरोमम१४२।
एवमुक्तःसुरसयाक्रुद्धोवानरपुङ्गवः॥

अब्रवीत्कुरुवैवक्त्रंयेनमांविषहिष्यसे१४३।
इत्युक्त्वासुरसांक्रुद्धोदशयोजनमायतः॥

दशयोजनविस्तारोबभूवहनुमांस्तदा१४४।
तंदृष्ट्वामेघसङ्काशंदशयोजनमायतम्॥

चकारसुरसाप्यास्यंविंशद्योजनमायतम्१४५।
हनुमांस्तुततःक्रुद्धस्त्रिंशद्योजनमायतः॥

चकारसुरसावक्त्रंचत्वारिंशत्तथोच्छ्रितम्१४६।
बभूवहनुमान्वीरःपञ्चाशद्योजनोच्छ्रितः॥

चकारसुरसावक्त्रंषष्टियोजनमायतम्१४७।
तथैवहनुमान्वीरःसप्ततिंयोजनोच्छ्रितः॥

चकारसुरसावक्त्रमशीतिंयोजनायतम्१४८।
हनूमानचलप्रख्योनवतिंयोजनोच्छ्रितः॥

चकारसुरसावक्त्रंशतयोजनमायतम्१४९।
तद्दृष्ट्वाव्यादितंत्वास्यंवायुपुत्रःसबुद्धिमान्॥

दीर्घजिह्वंसुरसयासुघोरंनरकोपमम्१५०।
ससङ्क्षिप्यात्मनःकायंजीमूतइवमारुतिः॥

तस्मिन्मुहूर्तेहनुमान्बभूवाङ्गुष्ठमात्रकः१५१।
सोऽभिपत्याशुतद्वक्त्रंनिष्पत्यचमहाजवः॥

अन्तरिक्षेस्थितःश्रीमानिदंवचनमब्रवीत्१५२।
प्रविष्टोऽस्मिहितेवक्त्रंदाक्षायणिनमोऽस्तुते॥

गमिष्येयत्रवैदेहीसत्यंचास्तुवचस्तव१५३।
तंदृष्ट्वावदनान्मुक्तंचन्द्रंराहुमुखादिव॥

अब्रवीत्सुरसादेवीस्वेनरूपेणवानरम्१५४।
अर्थसिद्ध्यैहरिश्रेष्ठगच्छसौम्ययथासुखम्॥

समानयचवैदेहींराघवेणमहात्मना१५५।
तत्तृतीयंहनुमतोदृष्ट्वाकर्मसुदुष्करम्॥

साधुसाध्वितिभूतानिप्रशशंसुस्तदाहरिम्१५६।
ससागरमनाधृष्यमभ्येत्यवरुणालयम्॥

जगामाकाशमाविश्यवेगेनगरुणोपमः१५७।
सेवितेवारिधारिभिःपतगैश्चनिषेविते॥

चरितेकैशिकाचार्यैरैरावतनिषेविते१५८।
सिंहकुञ्जरशार्दूलपतगोरगवाहनैः॥

विमानैःसम्पतद्भिश्चविमलैःसमलङ्कृते१५९।
वज्राशनिसमाघातैःपावकैरुपशोभिते॥

कृतपुण्यैर्महाभागैःस्वर्गजिद्भिरलङ्कृते१६०।
बहताहव्यमत्यन्तंसेवितेचित्रभानुना॥

ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते१६१।
महर्षिगणगन्धर्वनागयक्षसमाकुले॥

विविक्तेविमलेविश्वेविश्वावसुनिषेविते१६२।
देवराजगजाक्रान्तेचन्द्रसूर्यपथेशिवे॥

वितानेजीवलोकस्यविततोब्रह्मनिर्मिते१६३।
बहुशःसेवितेवीरैर्विद्याधरगणैर्वरैः॥

कपिनाकृष्यमाणानिमहाभ्राणिचकाशिरे१६४।
प्रविशन्नभ्रजालानिनिष्पतंश्चपुनःपुनः॥

प्रावृषीन्दुरिवाभातिनिष्पतन्प्रविशंस्तदा१६५।
प्लवमानंतुतंदृष्ट्वासिंहिकानामराक्षसी॥

मनसाचिन्तयामासप्रवृद्धाकामरूपिणी१६६।
अद्यदीर्घस्यकालस्यभविष्याम्यहमाशिता॥

इदंहिमेमहत्सत्त्वंचिरस्यवशमागतम्१६७।
इतिसञ्चिन्त्यमनसाछायामस्यसमक्षिपत्॥

छायायांसङ्गृहीतायांचिन्तयामासवानरः१६८।
समाक्षिप्तोऽस्मिसहसापङ्गूकृतपराक्रमः॥

प्रतिलोमेनवातेनमहानौरिवसागरे१६९।
तिर्यगूर्ध्वमधश्चैववीक्षमाणस्ततःकपिः॥

ददर्शसमहासत्त्वमुत्थितंलवणाम्भसि१७०।
कपिराज्ञायदाख्यातंसत्त्वमद्भुतदर्शनम्॥

छायाग्राहिमहावीर्यंतदिदंनात्रसंशयः१७१।
सतांबुद्ध्वार्थतत्त्वेनसिंहिकांमतिमान्कपिः॥

व्यवर्धतमहाकायःप्रावृषीवबलाहकः१७२।
तस्यसाकायमुद्वीक्ष्यवर्धमानंमहाकपेः॥

वक्त्रंप्रसारयामासपातालाम्बरसंनिभम्१७३।
सददर्शततस्तस्याविकृतंसुमहन्मुखम्॥

कायमात्रंचमेधावीमर्माणिचमहाकपिः१७४।
सतस्याविवृतेवक्त्रेवज्रसंहननःकपिः॥

सङ्क्षिप्यमुहुरात्मानंनिष्पपातमहाबलः१७५।
आस्येतस्यानिमज्जन्तंददृशुःसिद्धचारणाः॥

ग्रस्यमानंयथाचन्द्रंपूर्णंपर्वणिराहुणा१७६।
ततस्तस्यनखैस्तीक्ष्णैर्मर्माण्युत्कृत्यवानरः॥

उत्पपाताथवेगेनमनःसम्पातविक्रमः१७७।
तांहतांवानरेणाशुपतितांवीक्ष्यसिंहिकाम्॥

भूतान्याकाशचारीणितमूचुःप्लवगर्षभम्१७८।
भीममद्यकृतंकर्ममहत्सत्त्वंत्वयाहतम्॥

साधयार्थमभिप्रेतमरिष्टंप्लवतांवर१७९।
यस्यत्वेतानिचत्वारिवानरेन्द्रयथातव॥

धृतिर्दृष्टिर्मतिर्दाक्ष्यंसकर्मसुनसीदति१८०।
सतैःसम्भावितःपूज्यःप्रतिपन्नप्रयोजनः॥

जगामाकाशमाविश्यपन्नगाशनवत्कपिः१८१।
प्राप्तभूयिष्ठपारस्तुसर्वतःप्रतिलोकयन्॥

योजनानांशतस्यान्तेवनराजिंददर्शसः१८२।
ददर्शचपतन्नेवविविधद्रुमभूषितम्॥

द्वीपंशाखामृगश्रेष्ठोमलयोपवनानिच१८३।
सागरंसागरानूपान्सागरानूपजान्द्रुमान्॥

सागरस्यचपत्नीनांमुखान्यपिविलोकयन्१८४।
समहामेघसङ्काशंसमीक्ष्यात्मानमात्मना॥

निरुन्धन्तमिवाकाशंचकारमतिमान्मतिम्१८५।
कायवृद्धिंप्रवेगंचममदृष्ट्वैवराक्षसाः॥

मयिकौतूहलंकुर्युरितिमेनेमहाकपिः१८६।
ततःशरीरंसङ्क्षिप्यतन्महीधरसंनिभम्॥

पुनःप्रकृतिमापेदेवीतमोहइवात्मवान्१८७।
सचारुनानाविधरूपधारी॥

परंसमासाद्यसमुद्रतीरम्।
परैरशक्यप्रतिपन्नरूपः॥

समीक्षितात्मासमवेक्षितार्थः१८८।
ततःसलम्बस्यगिरेःसमृद्धे॥

विचित्रकूटेनिपपातकूटे।
सकेतकोद्दालकनालिकेरे॥

महाद्रिकूटप्रतिमोमहात्मा१८९।
ससागरंदानवपन्नगायुतं॥

बलेनविक्रम्यमहोर्मिमालिनम्।
निपत्यतीरेचमहोदधेस्तदा॥

ददर्शलङ्काममरावतीम्इव१९०।