वाल्मीकिरामायणयुद्धकाण्ड।
सर्ग॥
१॥
श्रुत्वाहनुमतोवाक्यंयथावदभिभाषितम्।
रामःप्रीतिसमायुक्तोवाक्यमुत्तरमब्रवीत्१॥
कृतंहनुमताकार्यंसुमहद्भुविदुष्करम्।
मनसापियदन्येननशक्यंधरणीतले२॥
नहितंपरिपश्यामियस्तरेतमहार्णवम्।
अन्यत्रगरुणाद्वायोरन्यत्रचहनूमतः३॥
देवदानवयक्षाणांगन्धर्वोरगरक्षसाम्।
अप्रधृष्यांपुरींलङ्कांरावणेनसुरक्षिताम्४॥
प्रविष्टःसत्त्वमाश्रित्यजीवन्कोनामनिष्क्रमेत्।
कोविशेत्सुदुराधर्षांराक्षसैश्चसुरक्षिताम्॥
योवीर्यबलसम्पन्नोनसमःस्याद्धनूमतः५।
भृत्यकार्यंहनुमतासुग्रीवस्यकृतंमहत्॥
एवंविधायस्वबलंसदृशंविक्रमस्यच६।
योहिभृत्योनियुक्तःसन्भर्त्राकर्मणिदुष्करे॥
कुर्यात्तदनुरागेणतमाहुःपुरुषोत्तमम्७।
नियुक्तोनृपतेःकार्यंनकुर्याद्यःसमाहितः॥
भृत्योयुक्तःसमर्थश्चतमाहुःपुरुषाधमम्८।
तन्नियोगेनियुक्तेनकृतंकृत्यंहनूमता॥
नचात्मालघुतांनीतःसुग्रीवश्चापितोषितः९।
अहंचरघुवंशश्चलक्ष्मणश्चमहाबलः॥
वैदेह्यादर्शनेनाद्यधर्मतःपरिरक्षिताः१०।
इदंतुममदीनस्यामनोभूयःप्रकर्षति॥
यदिहास्यप्रियाख्यातुर्नकुर्मिसदृशंप्रियम्११।
एषसर्वस्वभूतस्तुपरिष्वङ्गोहनूमतः॥
मयाकालमिमंप्राप्यदत्तस्तस्यमहात्मनः१२।
सर्वथासुकृतंतावत्सीतायाःपरिमार्गणम्॥
सागरंतुसमासाद्यपुनर्नष्टंमनोमम१३।
कथंनामसमुद्रस्यदुष्पारस्यमहाम्भसः॥
हरयोदक्षिणंपारंगमिष्यन्तिसमाहिताः१४।
यद्यप्येषतुवृत्तान्तोवैदेह्यागदितोमम॥
समुद्रपारगमनेहरीणांकिमिवोत्तरम्१५।
इत्युक्त्वाशोकसम्भ्रान्तोरामःशत्रुनिबर्हणः॥
हनूमन्तंमहाबाहुस्ततोध्यानमुपागमत्१६।